अमोघशिवकवचं
नमस्कृत्य महादेवं
विश्वव्यापिनमीश्वरम् ।
वक्ष्ये शिवमयं वर्म
सर्वरक्षाकरं नृणाम् ॥ १॥
शुचौ देशे समासीनो
यथावत्कल्पितासनः ।
जितेन्द्रियो
जितप्राणश्चिन्तयेच्छिवमव्यम् ॥ २॥
हत्पुण्डरीकान्तरसंनिविष्टं
स्वतेजसा व्याप्तनभोऽवकाशम् ।
अतीन्द्रियं
सूक्ष्ममनन्तमाद्यं ध्यायेत् परानन्दमयं महेशम् ॥ ३॥
ध्यानावधूताखिलकर्मबन्धश्चिरं
चिदान्दनिमग्नचेताः ।
षडक्षरन्याससमाहितात्मा
शैवेन कुर्यात् कवचेन रक्षाम् ॥ ४॥
मां पातु
देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे ।
तन्नाम दिव्यं
वरमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥ ५॥
सर्वत्र मां रक्षतु
विश्वमूर्तिर्ज्योतिर्म्यानन्दघनश्चिदात्मा ।
अणोरणीयानुरुशक्तिरेकः
स ईश्वरः पातु भयादशेषात् ॥ ६॥
यो भूस्वरूपेण बिभर्ति
विश्वं पायात् स भूमेर्गिरिशोऽष्टमूर्तिः ।
योऽपां स्वरूपेण नृणां
करोति सञ्जीवनं सोऽवतु मां जलेभ्यः ॥ ७॥
कल्पावसाने भुवनानि
दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।
स कालरुद्रोऽवतु मां
दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ॥ ८॥
प्रदीप्तविद्युत्कनकावभासो
विद्यावराभीतिकुठारपाणिः ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः
प्राच्यां स्थितं रक्षतु मामजस्त्रम् ॥ ९॥
कुठारवेदाङ्कुशपाशशूलकपालढक्काक्षगुणान्
दधानः ।
चतुर्मुखो
नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥ १०॥
कुदेंन्दुशङ्खस्फटिकावभासो
वेदाक्षमालावरदाभयाङ्कः ।
त्र्यक्षश्चतुर्वक्त्र
उरुप्रभावः सद्योऽधिजातोऽवतु मां प्रतीचाम् ॥ ११॥
वराक्षमालाभयटङ्कहस्तः
सरोजकिञ्जल्कसमानवर्णः ।
त्रिलोचनश्चारुचतुर्मुखो
मां पायादुदिच्यां दिशि वामदेवः ॥ १२॥
वेदाभयेष्टाङ्कुशपाशटङ्क
कपालढक्काक्षशूलपाणिः ।
सितद्युतिः
पञ्चमुखोऽवतान्मा मीशान ऊर्ध्वं परमप्रकाशः ॥ १३॥
मूर्द्धानमव्यान्मम
चन्द्रमौलिर्भालं ममाव्यादथ भालनेत्रः ।
नेत्रे ममाव्याद्
भगनेत्रहारी नासां सदा रक्षतुअ विश्वनाथः ॥ १४॥
पायाच्छुती मे
श्रुतिगीतकीर्तिः कपोलमव्यात् सततं कपाली ।
वक्त्रं सदा रक्षतु
पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिव्हः ॥ १५॥
कण्ठं गिरीशोऽवतु
नीलकण्ठः पणिद्वयं पातु पिनाकपाणिः ।
दोर्मूलमव्यान्मम
धर्मबाहुर्वक्षःस्थलं दक्षमखान्तकोऽव्यात् ॥ १६॥
ममोदरं पातु
गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ।
हेरम्बतातो मम पातु
नाभिं पायात् कटी धूर्जटिरीश्वरो मे ॥ १७॥
ऊरुद्वयं पातु
कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् ।
जङ्घायुगं
पुङ्गवकेतुरव्यात् पादौ ममाव्यात् सुरवन्द्यपादः ॥ १८॥
महेश्वरः पातु
दिनादियामे मां मध्ययामेऽवतु वामदेवः ।
त्रियम्बकः पातु
तृतीययामे वृषध्वजः पातु दिनान्त्ययामे ॥ १९॥
पायान्निशादौ शशिशेखरो
मां गङ्गाधरो रक्षतु मां निशीथे ।
गौरीपतिः पातु
निशावंसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥ २०॥
अन्तःस्थितं रक्षतु
शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् ।
तदन्तरे पातु पतिः
पशूनां सदाशिवो रक्षतु मां समन्तात् ॥ २१॥
तिष्ठन्तमव्याद्भुवनैकनाथः
पायात् व्रजन्तं प्रमथाधिनाथः ।
वेदान्तवेद्योऽवतु मां
निषण्णं मामव्ययः पातु शिवः शयानम् ॥ २२॥
मार्गेषु मां रक्षतु
नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः ।
अरण्यवासादिमहाप्रवासे
पायान्मृगव्याध उदारशक्तिः ॥ २३॥
कल्पान्तकाटोपपटुप्रकोपः
स्फुटाट्टहासोच्चलिताण्डकोशः ।
घोरारिसेनार्णवदुर्निवार
महाभयाद् रक्षतु वीरभद्रः ॥ २४॥
पत्त्यश्वमातङ्गघटावरूथ
सहस्रलक्षायुतकोटिभीषणम् ।
अक्षौहिणीनां
शतमाततायिनां छिन्द्यान्मृडो घोरकुठारधारया ॥ २५॥
निहन्तु दस्यून्
प्रलयानलार्चिर्ज्वलत् त्रिशूलं त्रिपुरान्तकस्य ।
शार्दूलसिंहर्क्षवृकादिहिंस्त्रान्
सन्त्रासयत्वीशधनुः पिनाकम् ॥ २६॥
दुःस्वप्नदुश्शकुनदुर्गतिदौर्मनस्य
दुर्भिक्षदुर्व्यसनदुस्सहदुर्यशांसि
।
उत्पाततापविषभीतिमसद्
ग्रहार्ति-
व्याधींश्च नाशयतु मे
जगतामधीशः ॥ २७॥
ऋषभ उवाच :-
इत्येतत्कवचं शैवं वरदं
व्याहृतं मया ।
सर्वबाधाप्रशमनं रहस्यं
सर्वदेहिनाम् ॥ २८॥
यः सदा धारयेन्मर्त्यः
शैवं कवचमुत्तमम् ।
न तस्य जायते क्वापि
भयं शम्भोरनुग्रहात् ॥ २९॥
क्षीणायुर्मृत्युमापन्नो
महारोगहतोऽपि वा ।
सद्यः सुखमवाप्नोति
दीर्घमायुश्च विन्दति ॥ ३०॥
सर्वदारिद्र्यशमनं
सौमङ्गल्यविवर्धनम् ।
यो धत्ते कवचं शैवं स
देवैरपि पूज्यते ॥ ३१॥
महापातकसङ्घातैर्मुच्यते
चोपपातकैः ।
देहान्ते शिवमाप्नोति
शिववर्मानुभावतः ॥ ३२॥
त्वमपि श्रद्धया वत्स
शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं
सद्यः श्रेयो ह्यवाप्स्यसि ॥ ३३॥
इति श्रीस्कान्दे
महापुराणे एकाशीतिसाहस्रयां तृतीये
ब्रह्मोत्तरखण्डे
अमोघशिवकवचं सम्पूर्णम् ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें